हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Vallabhesha Hrudayam – श्री वल्लभेश हृदयम्
श्रीदेव्युवाच ।
वल्लभेशस्य हृदयं कृपया ब्रूहि शङ्कर ।
श्रीशिव उवाच ।
ऋष्यादिकं मूलमन्त्रवदेव परिकीर्तितम् ॥ 1 ॥
ओं विघ्नेशः पूर्वतः पातु गणनाथस्तु दक्षिणे ।
पश्चिमे गजवक्त्रस्तु उत्तरे विघ्ननाशनः ॥ 2 ॥
आग्नेय्यां पितृभक्तस्तु नैऋत्यां स्कन्दपूर्वजः ।
वायव्यामाखुवाहस्तु ईशान्यां देवपूजितः ॥ 3 ॥
ऊर्ध्वतः पातु सुमुखो ह्यधरायां गजाननः ।
एवं दशदिशो रक्षेत् विकटः पापनाशनः ॥ 4 ॥
शिखायां कपिलः पातु मूर्धन्याकाशरूपधृक् ।
किरीटिः पातु नः फालं भ्रुवोर्मध्ये विनायकः ॥ 5 ॥
चक्षुषी मे त्रिनयनः श्रवणौ गजकर्णकः ।
कपोलयोर्मदनिधिः कर्णमूले मदोत्कटः ॥ 6 ॥
सदन्तो दन्तमध्येऽव्यात् वक्त्रं पातु हरात्मजः ।
चिबुके नासिके चैव पातु मां पुष्करेक्षणः ॥ 7 ॥
उत्तरोष्ठे जगद्व्यापी त्वधरोष्ठेऽमृतप्रदः ।
जिह्वां विद्यानिधिः पातु तालुन्यापत्सहायकः ॥ 8 ॥
किन्नरैः पूजितः कण्ठं स्कन्धौ पातु दिशाम्पतिः ।
चतुर्भुजो भुजौ पातु बाहुमूलेऽमरप्रियः ॥ 9 ॥
अंसयोरम्बिकासूनुरङ्गुलीश्च हरिप्रियः ।
आन्त्रं पातु स्वतन्त्रो मे मनः प्रह्लादकारकः ॥ 10 ॥
प्राणाऽपानौ तथा व्यानमुदानं च समानकम् ।
यशो लक्ष्मीं च कीर्तिं च पातु नः कमलापतिः ॥ 11 ॥
हृदयं तु परम्ब्रह्मस्वरूपो जगदिपतिः ।
स्तनौ तु पातु विष्णुर्मे स्तनमध्यं तु शाङ्करः ॥ 12 ॥
उदरं तुन्दिलः पातु नाभिं पातु सुनाभिकः ।
कटिं पात्वमलो नित्यं पातु मध्यं तु पावनः ॥ 13 ॥
मेढ्रं पातु महायोगी तत्पार्श्वं सर्वरक्षकः ।
गुह्यं गुहाग्रजः पातु अणुं पातु जितेन्द्रियः ॥ 14 ॥
शुक्लं पातु सुशुक्लस्तु ऊरू पातु सुखप्रदः ।
जङ्घदेशे ह्रस्वजङ्घो जानुमध्ये जगद्गुरुः ॥ 15 ॥
गुल्फौ रक्षाकरः पातु पादौ मे नर्तनप्रियः ।
सर्वाङ्गं सर्वसन्धौ च पातु देवारिमर्दनः ॥ 16 ॥
पुत्रमित्रकलत्रादीन् पातु पाशाङ्कुशाधिपः ।
धनधान्यपशूंश्चैव गृहं क्षेत्रं निरन्तरम् ॥ 17 ॥
पातु विश्वात्मको देवो वरदो भक्तवत्सलः ।
रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ॥ 18 ॥
तत्सर्वं रक्षयेद्देवो मार्गवासी जितेन्द्रियः ।
अटव्यां पर्वताग्रे वा मार्गे मानावमानगे ॥ 19 ॥
जलस्थलगतो वाऽपि पातु मायापहारकः ।
सर्वत्र पातु देवेशः सप्तलोकैकसंश्रितः ॥ 20 ॥
फलश्रुतिः ।
य इदं कवचं पुण्यं पवित्रं पापनाशनम् ।
प्रातःकाले जपेन्मर्त्यः सदा भयविनाशनम् ॥ 21 ॥
कुक्षिरोगप्रशमनं लूतास्फोटनिवारणम् ।
मूत्रकृच्छ्रप्रशमनं बहुमूत्रनिवारणम् ॥ 22 ॥
बालग्रहादिरोगाणांनाशनं सर्वकामदम् ।
यः पठेद्धारयेद्वाऽपि करस्थास्तस्य सिद्धयः ।
यत्र यत्र गतश्चाऽपि तत्र तत्राऽर्थसिद्धिदम् ॥ 23 ॥
यश्शृणोति पठति द्विजोत्तमो
विघ्नराजकवचं दिने दिने ।
पुत्रपौत्रसुकलत्रसम्पदः
कामभोगमखिलांश्च विन्दति ॥ 24 ॥
यो ब्रह्मचारिणमचिन्त्यमनेकरूपं
ध्यायेज्जगत्रयहितेरतमापदघ्नम् ।
सर्वार्थसिद्धिं लभते मनुष्यो
विघ्नेशसायुज्यमुपेन्न संशयः ॥ 25 ॥
इति श्रीविनायकतन्त्रे श्रीवल्लभेशहृदयं सम्पूर्णम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.